भारतीय दर्शनपरिचय: part 2 समया: हि प्रवाहतोऽनादिनित्या इत्यभियुक्तोक्ते: सर्वाण्यपि दर्शनानि प्रवाहतोऽनादिनित्यानि । कस्मिंश्चित्कालघट्टे तत्तद्दर्शनस्याभ्युदय: समभूदिति भारतीयदर्शनपरम्पराभिज्ञा एव ज्ञातुं शक्नुवन्ति । अत: दर्शनानां पूर्वत्वापरत्वे तत्तद्दर्शनाभ्युदयसापेक्षे । तत्तद्दर्शनाभ्युदयकारणीभूतानां कालमपेक्ष्यैव दर्शनानामपि काल: निर्णीयते । सं दर्शनानि प्रवर्तका: 1 चार्वाकदर्शनम् बृहस्पति: 2 जैनदर्शनम् जिन: 3 बौद्धदर्शनम् बुद्ध: 4 सांख्य- योगदर्शनम् कपिलमुनि:/ पतञ्जलि: 5 न्याय-वैशेषिकदर्शनम् गौतमः कणाद: 6 पूर्वमीमांसादर्शनम् उत्तरमीमांसादर्शनम् जैमिनि: – वेदव्यास: दार्शनविकास: प्राय: स्तरत्रये दर्शनानां विकास: परिदृश्यते । परमार्थदिदृक्षु: कश्चन ऋषि: स...
Posts
Showing posts from February 27, 2021