संस्कृताध्ययनम् अध्यापनञ्च संस्कृतेतरभारतीयभाषाणाम् अभिवृद्धि: कथमासीत् ? आङ्ग्लभाषाया:अभिवृद्धि: कथमासीत् ? इत्यत्र किञ्चिद्विचारयाम: । · गृहे, ग्रामे, राज्ये, वा व्यवहाराय उपयुज्यमाना भाषा या काऽपि वा भवतु, व्यवहारमात्रेण भाषाया: अभिवृद्धि: न भवति । व्यवहारमात्रेण भाषा जीवतीति वृथापलाप: । · शिक्षणे या भाषा अत्यन्तं विस्तृता व्याप्ता वा भवति सैवाभिवृद्धिं गच्छति । · इतरभारतीयभाषापेक्षयाऽऽङ्ग्लभाषाया: अधिका अभिवृद्धि: दृश्यते। किं तत्र कारणम् ? इत्यत्र इदमेव उत्तरं यत् शिक्षणे इतरभारतीयभाषापेक्षया आङ्ग्लभाषाया: अत्यधिका व्याप्ति: विद्यते । · क्वचिदाङ्ग्लभाषाया: स्यादेवानिवार्यता । आधुनिकवैज्ञानिकशास्त्राणामध्ययनमाङ्ग्ल- भाषां विना न सम्भवतीति । · ...
Posts
Showing posts from November 21, 2023