संस्कृताध्ययनम् अध्यापनञ्च

संस्कृतेतरभारतीयभाषाणाम् अभिवृद्धि: कथमासीत् ? आङ्ग्लभाषाया:अभिवृद्धि: कथमासीत् ?  इत्यत्र किञ्चिद्विचारयाम: ।

·                गृहे, ग्रामे, राज्ये, वा व्यवहाराय उपयुज्यमाना भाषा या काऽपि वा भवतु, व्यवहारमात्रेण भाषाया: अभिवृद्धि: न भवति । व्यवहारमात्रेण भाषा जीवतीति वृथापलाप: ।

·           शिक्षणे या भाषा अत्यन्तं विस्तृता व्याप्ता वा भवति सैवाभिवृद्धिं गच्छति । 

·           इतरभारतीयभाषापेक्षयाऽऽङ्ग्लभाषाया: अधिका अभिवृद्धि: दृश्यते। किं तत्र कारणम् ? इत्यत्र इदमेव उत्तरं यत् शिक्षणे इतरभारतीयभाषापेक्षया आङ्ग्लभाषाया: अत्यधिका व्याप्ति: विद्यते ।

·           क्वचिदाङ्ग्लभाषाया: स्यादेवानिवार्यता । आधुनिकवैज्ञानिकशास्त्राणामध्ययनमाङ्ग्ल- भाषां विना न सम्भवतीति ।

·           तर्हि केषाञ्चन शास्त्राणामध्ययनाय आङ्ग्लभाषा अनिवार्या इति तस्या: अभ्यसनमारब्धं प्रथमकक्ष्यात: । त्रिभाषासूत्रमाश्रित्य नियतरूपेण आङ्ग्लभाषाया: अध्ययनम् अध्ययनप्रणाल्यां निबद्धम् अभवत् । तावता नालमिति आङ्ग्लभाषामाध्यमेन समेषां विषयाणां अध्ययनमध्यापनमारब्धम् । भारतीयराज्यशास्त्रस्य–समाजशास्त्रस्य-अर्थशास्त्रस्य– गणितशास्त्रस्य-वैद्यशास्त्रस्य-योगशास्त्रस्य च एवं अनेकेषां शास्त्राणां चाङ्ग्लीकरणमभवत् ।

·           सर्वेषामेतेषां शास्त्राणां मूलं संस्कृतमेव ।  एवं यत्राङ्ग्लभाषाया: अनिवार्यता नास्ति तादृशानि पि शास्त्राणि आङ्ग्लभाषया पठ्यन्ते पाठ्यन्ते चेत्येतदेव कारणम् आङ्ग्लभाषाया: सर्वाधिकाभिवृद्धये । एतावता भाषाभिवृद्धे: कारणं  किमिति अवगतमेव ।   

·           तर्हि संस्कृतभाषाभिवृद्धये के उपाया: सन्ति ? इति चिन्तनीयम् । देश-विदेशेषु संस्कृतानुरागिण: संस्कृतभाषाभाषिण: भारतीयदार्शनिकतत्त्वानुरागिण: जिज्ञासव: भारतीयतत्त्वबुबुत्सव: समधिजिगीषवश्च सन्ति । तदर्थमेव विविधान्यध्ययनकेन्द्राणि विराजन्ते । तत्र भारतीयसंस्कृतविश्वविद्यालया अपि अनेकेऽन्तर्भवन्ति ।

·           तत्रस्थविविधविभागानां लक्ष्यं भवेत्संस्कृतेन शास्त्राध्ययनम् अध्यापनञ्च । इयं परिपाटी इदानीं सर्वथा ह्रासङ्गता भाति। तदर्थं पञ्चवर्षेषु पुन: सा पद्धति: प्रतिष्ठापिता यथा स्यात्तथा प्रयतितव्यम्।

·           आधुनिकशास्त्रै: सह पारम्परिकशास्त्राध्ययनं,  संस्कृतेन आधुनिकशास्त्राध्ययनं संस्कृतविश्वविद्यालयानां लक्ष्यं भवेत् । न तु पारम्परिकशास्त्राणाम् आङ्ग्लभाषयाध्ययनम् । योगशास्त्रं वा निर्वहणशास्त्रं वा ज्यौतिषं वा वेदान्तं यद्याङ्ग्लभाषया पठन्ति, पाठयन्ति तर्हि क: व्यत्यास: सामान्यविश्वविद्यालयेभ्य: संस्कृतविश्वविद्यालयानाम् ।

·           संस्कृतविश्वविद्यालये आधुनिकशास्त्राणाम् उपक्रमस्तावत् आङ्ग्लभाषायां स्यात्  परन्तु कालेन तस्य संस्कृतभाषया परिवर्तनमेव मुख्यं लक्ष्यं भवेत्   संस्कृतविश्वविद्यालयानाम् । तद्विहाय आङ्ग्लभाषयैव पठनपाठनानाम् अनुवर्तनं तु सर्वथानुचितम् ।

·           ये केचन संस्कृतशास्त्राणि पठितुं तद्विषये ज्ञातुं वा इच्छन्ति तेषां संस्कृतभाषाज्ञानम् अनिवार्यं यथा स्यात् तथा विधेयम् । यद्यनुवादपूर्वकम् अन्यान् संस्कृतभाषानभिज्ञान् बोधयाम: तर्हि संस्कृतभाषाया: वा शास्त्राणां मूलस्वरूपं वा संस्कृतेन चिन्तनपद्धतिर्वा इतोऽपि ह्रासङ्गच्छति ।

·           संस्कृतभाषाया: संरक्षणाय यथा  शास्त्राणामध्ययनं संस्कृतमाध्यमेनैव इति अनिवार्यं भवेत् तथा संस्कृतभाषासंवर्धनाय आधुनिकशास्त्राणां विज्ञानानां वा संस्कृतेन अनुवाद: भवेत् । संस्कृतभाषयापि तेषामध्ययनाध्यापने स्याताम् । यथा आङ्ग्लमाध्यमशाला: यथा वा प्रादेशिकभाषामाध्यमशाला: भवन्ति तथा संस्कृतभाषामाध्यमशाला: भवेयु: । तदैव आधुनिक-प्राचीनशास्त्राणां  तौलनिकमध्ययनं सुशकं स्यात् । पारम्परिकाधुनिकविज्ञानयो: सेतु: निर्मित: स्यात्।  

·           यद्येवं प्राथमिकस्तरादेव संस्कृतमाध्यमेन शिक्षणं भवति, आङ्ग्लभाषाध्ययनस्यानिवार्यता अपगच्छति, तर्हि कालेन भारतीयाधुनिकशास्त्राणाम् आयुर्वेद-गणित-रसशास्त्र-संख्याशास्त्र-लोहशास्त्र-समाजशास्त्र-नीतिशास्त्र-योगशास्त्र-राज्यशास्त्रादीनामध्ययनाध्यापनमपि संस्कृतेन शक्यसाध्यम् । क्रमश: आधुनिकवैद्यकीयशिक्षणं, तान्त्रिकशिक्षणमपि संस्कृतेन भवति यदि तर्हि अनेकेषां नूतनतत्त्वानामाविष्करणं नूनं भविष्यतीति नातिशयोक्ति: ।

·           अत: भारतदेशे मातृभाषा एवं संस्कृतभाषा इति द्वे भाषे अनिवार्ये यथा स्यातां तथा सर्वकारेण शिक्षणपटुभिश्च यत्नो विधेय: ।  

 

 

 

Popular posts from this blog

ಬ್ರಾಹ್ಮಣ್ಯ ಮತ್ತು ಭಾರತ