भारतीय दर्शनपरिचय: part 1 किम् नाम दर्शनम् ? दर्शनम् इत्यस्य ज्ञानम् इति, ज्ञानसाधनम् शास्त्रम् इति च अर्थ: । दृशिर् प्रेक्षणे इति धातो: ल्युट् प्रत्यये सति निष्पन्न: दर्शनम् इति शब्द: । ल्युट् प्रत्यय: भावार्थे करणार्थे, च भवति । भावार्थे ल्युट् प्रत्यय: भवति चेत् दर्शनशब्दस्य ज्ञानम् इति अर्थ: (दृश्यते इति दर्शनम् ) करणार्थे भवति चेत् ज्ञानसाधनं शास्त्रम् इति अर्थ: ( दृश्यते अनेन इति दर्शनम् ) । ज्ञानसाधनानि अनेकानि सन्ति । यथा पञ्चज्ञानेन्द्रियाणि, अनुमानम् ,शब्दश्च, । चक्षु: रसनं,घ्राणं, त्वक्, श्रोत्रं, इति पञ्च ज्ञानेन्द्रियाणि भवन्ति । एतै: पञ्चज्ञानेन्द्रियै: क्रमश: रूप-रस-गन्ध-स्पर्श-शब्दानां ज्ञानं जायते । · देशत: कालत: असन्निहितानां पदार्थानां ज्ञानं प्रत्यक्षेण न भवति । तादृशानां पदार्थानां ज्ञानं शब्देन वा अनुमानेन वा भवति । एतस्य विवरणम् अग्रे भविष्यति । अत्र अयं प्रश्न:...
Posts
Showing posts from February 26, 2021
भारतीयदर्शनानि - अन्त:शास्त्रीयमध्ययनम् एकं चिन्तनम्
भारतीयदर्शनानि - अन्त:शास्त्रीयमध्ययनम् एकं चिन्तनम् अन्त:शास्त्रीयाध्ययनम्- प्राचीनपारम्परिकभारतीयदर्शनेषु अन्त:शास्त्रीयाध्ययनं स्वाभाविकं विद्यत इति तत्तद्दर्शनाध्येतॄणां विदितमेव । अन्त:शास्त्रीयाध्ययनस्यावश्यकता का ? तस्य किं वा प्रयोजनम् इति किञ्चिदत्र चिन्तयाम: - १. अन्त:शास्त्रीयाध्ययनव्याजेन पारम्परिकशास्त्राणामध्ययने सृजनात्मकताया: सम्पादनम् शक्यते २. शास्त्रान्तरमधीयाना: अपरस्मिन् शास्त्रे नावीन्यमापादयितुं शक्नुवन्ति । ३. एकस्मिन्नेव शास्त्रे निष्णाता: कदाचित्क्वचिद्विषये दोषानाचरेयु: परन्तु नैकशास्त्रनिपुणा: तद्विषये समीचीनां दृष्टिं प्रसारयितुं प्रभवन्ति । ४. सुसूक्ष्मविचारशक्तिसंवर्धनद्वारा बह्वीनां बौद्धिकसमस्यानां सामाजिकसमस्यानां तथा प्रायोगिकसमस्यानां परिहरणे अन्त:शास्त्रीयमध्ययनं सहकरोति । ५. अन्त:शास्त्रीयमध्ययनं बहुत्र ज्ञानेषु परस्परसंवादं जनयति । ६. अन्त:शास्त्रीयाध्ययनेन कश्चित् संशोधनकर्मणि ...
This article is published in VIMUKTIH collection of articles of National Seminar on "Life, Life after death and Self Realization" held on 16th &17th March 2019 at Shri Medhadakshinamurty Vedabhavana Sanskrit College, Gokarna with ISBN - 978-81-943769-0-3 माध्ववेदन्ते बन्धमोक्षौ- मोक्षे आनन्दतारतम्यञ्च भूतबन्धस्तु संसार: यस्मिन् कल्पे ये जीवा: सृज्या: तत्कल्पपर्यन्तमनादितो रमामात्रप्रतीकतया ताञ्जीवानधितिष्ठति (सृष्ट्यनन्तरं तु रमामुख्यप्राणप्रतीकाभवन्ति ) । सृष्टिकल्पे तु दशेन्द्रियपञ्चभूतमनोरूपषोडशकलात्म - कमव्यूढगुणत्रयात्मकं प्रकाशक्रियावरणलक्षणशक्ति- युक्तं (प्रकाशो हि सत्वस्य क्रिया हि रजस: आवरणं हि तमस: ) सूक्ष्मतमं लिङ्गशरीरं क्षीरं नीरेणेव जीवचिता संवलितम् । तस्मिंश्च चिदचिन्मिश्रे पिण्डे एव जीवशब्दव्यवहारो यावत्परममुक्ति: । तत्रैव च न भेदप्रतिभासो विनाऽपरोक्षात् । यथा दीपो भूतान्तरसंवलितोऽपि तेजोऽप्रतिघं तथा सूक्ष्मगुणत्रयात्मिकाचिन्मिश्रिता चित् । तच्च न चितो विशेषतोपकारापकारक्षममिति द्वितीयेन महदहङ्कारभूतांशै: संयोज्य, भोगेन प्रारब्धं क्ष...