Posts

Showing posts from May 6, 2021

राष्ट्रियशिक्षानीति: - २०२० तथा संस्कृतविश्वविद्यालया:

  राष्ट्रियशिक्षानीति: - २०२०   तथा संस्कृतविश्वविद्यालया: राष्ट्रियशिक्षानीते: अन्वयनं विश्वविद्यालयीयसंस्कृतशिक्षणे कियद्वा प्रायोगिकम्   इति किञ्चिदिवात्रालोच्यते । द्विविधा: छत्रा: विश्वविद्यालयीयसंस्कृतशिक्षणं   प्रविशन्ति १. साम्प्रदायिकशिक्षणमूला: २. आधुनिकशिक्षणमूला: द्वयोर्मध्ये महदन्तरं भवति । साम्प्रदायिकशिक्षणमूला: केवलम् उपाधिप्राप्त्यर्थमेव विश्वविद्यालयीयसंस्कृतशिक्षणं प्रविशन्ति । ते तु प्राय: आधुनिकविद्यागन्धरहिता: एव । ते शास्त्रीयविषयेषु निष्णाता: आधुनिकविषयेषु क्लेशमनुभवन्ति । यत: तेषां कम्प्यूटर् विज्ञाने , आङ्ग्लभाषायां वा गति: सर्वथा न भवति । विश्वविद्यालये तु कम्प्यूटर् विज्ञानं वा , आङ्ग्लभाषा वा यथा अन्यविश्वविद्यालयेषु पाठ्यते तत्समानस्तरे एव अत्रापि पाठ्यते इति ते तादृशविषयेषु सफला न भवन्ति । आधुनिकशिक्षणमूला: वर्तमानकाले तावत् भारत्तीयशिक्षणपद्धतौ संस्कृतं हि प्राय: क्वचित् ६ कक्ष्यात: क्वचिच्च    ८ कक्ष्यात: वा ऐच्छिकरूपेण पठ्यते । अयञ्च अवकाश: केवलं केषुचिदेव विद्यालयेषु विद्यते । किञ्च संस्कृतं हि तत्र केवलं सामान्यभाषारूपेणैव तत्र पठ्