राष्ट्रियशिक्षानीति: - २०२० तथा संस्कृतविश्वविद्यालया:

 

राष्ट्रियशिक्षानीति: - २०२०  तथा संस्कृतविश्वविद्यालया:

राष्ट्रियशिक्षानीते: अन्वयनं विश्वविद्यालयीयसंस्कृतशिक्षणे कियद्वा प्रायोगिकम्  इति किञ्चिदिवात्रालोच्यते ।

द्विविधा: छत्रा: विश्वविद्यालयीयसंस्कृतशिक्षणं  प्रविशन्ति

१. साम्प्रदायिकशिक्षणमूला:

२. आधुनिकशिक्षणमूला:

द्वयोर्मध्ये महदन्तरं भवति ।

साम्प्रदायिकशिक्षणमूला:

केवलम् उपाधिप्राप्त्यर्थमेव विश्वविद्यालयीयसंस्कृतशिक्षणं प्रविशन्ति । ते तु प्राय: आधुनिकविद्यागन्धरहिता: एव । ते शास्त्रीयविषयेषु निष्णाता: आधुनिकविषयेषु क्लेशमनुभवन्ति । यत: तेषां कम्प्यूटर् विज्ञाने, आङ्ग्लभाषायां वा गति: सर्वथा न भवति । विश्वविद्यालये तु कम्प्यूटर् विज्ञानं वा , आङ्ग्लभाषा वा यथा अन्यविश्वविद्यालयेषु पाठ्यते तत्समानस्तरे एव अत्रापि पाठ्यते इति ते तादृशविषयेषु सफला न भवन्ति ।

आधुनिकशिक्षणमूला:

वर्तमानकाले तावत् भारत्तीयशिक्षणपद्धतौ संस्कृतं हि प्राय: क्वचित् ६ कक्ष्यात: क्वचिच्च   ८ कक्ष्यात: वा ऐच्छिकरूपेण पठ्यते । अयञ्च अवकाश: केवलं केषुचिदेव विद्यालयेषु विद्यते । किञ्च संस्कृतं हि तत्र केवलं सामान्यभाषारूपेणैव तत्र पठ्यते । क्वचित् २५ अङ्कानां कृते, क्वचिच्च ५० अङ्कानां, क्वचिदपि १०० अङ्कानां कृते भवति । तस्मिन् स्तरे छात्रा: संस्कृतं न संस्कृतमाध्यमेन पठन्ति  अपि तु प्रादेशिकभाषामाध्यमेन आङ्ग्लभाषामाध्यमेन वा पठन्ति । किञ्च आधुनिकविषयाध्ययनमेव छात्राणां मुख्यं लक्ष्यं भवति । एवं    वर्षद्वयं, वर्षत्रयं, वर्षपञ्चकं वा यावत् संस्कृतं यै: पठितं तेषु केचन  स्वेच्छया , केचन अन्या गति: नास्तीति, विश्वविद्यालयीयसंस्कृतशिक्षणे प्रविशन्ति । इतरभाषाणां वा  विज्ञान-समाजविज्ञान-अर्थशास्त्रेतिहासादीनां विश्वविद्यालयीयाध्ययनं कस्मिन् स्तरे भवतीति वयं सर्वे जानीम: । तत्समानस्तरे हि संस्कृताध्ययनं भवेत् ।

अयमेव हि इतरविषयाणां संस्कृतस्य च व्यत्यास:

आङ्ग्लं, हिन्दी, तेलुगु, इत्यादय:  भाषा: भवन्ति । कला: विज्ञानं, तन्त्रज्ञानम् अर्थशास्त्रं, इतिहास: इत्यादय: शास्त्रसमकक्षापन्ना: यया कयापि भाषया पठितुं शक्या: विषया: । परन्तु संस्कृतं भाषापि भवति शास्त्रमपि भवति अनन्तशाखासंयुक्तवृक्ष इव संस्कृतं विभिन्नशाखासम्पन्नम् ।आधुनिकविषयाणां कलाविज्ञानादीनां मूलमपि भवति संस्कृतम् ।परन्तु केवलं संस्कृतभाषाज्ञानेन संस्कृते विद्यमानानां प्राचीनविज्ञानानां वा साङ्ख्यादिदर्शनानां वा अधिगमनं सुलभसाध्यम् । संस्कृतभाषाभ्यासानन्तरम् एकैकस्मिन् अपि शास्त्रे न्यूनातिन्यूनं पञ्चवर्षाणि प्रयासं करोति चेदेव कश्चित् बुद्धिमान्  तस्मिन् शास्त्रे सामान्यत: निष्णात: भवति ।

 

आधुनिका: - कला,विज्ञानं,तन्त्रज्ञानम् अर्थशास्त्रं, इतिहास: भाषा: इत्यादय: विषया: एल् के जि त: पठ्यन्ते । तेषां हि अध्ययनं क्रमप्राप्तमिति स्नातकस्तरे वा स्नातकोत्तरस्तरे वा संशोधनात्मकं वा बहुविषयकं तौलनिकं वा भवितुमर्हति ।

संस्कृतस्य वा तद्गतशास्त्राणां  वा अध्ययनं न क्रमप्राप्तम् । संस्कृतभाषाया: सामान्यज्ञानमेव यस्मिन् स्तरे छात्रा: प्राप्नुवन्ति तत्र स्नातकस्तरे वा स्नातकोत्तरस्तरे वा कथं संशोधनात्मकं वा बहुविषयकं तौलनिकं वा अध्ययनं कर्तुं शक्नुवन्ति छात्रा: ?

यस्मिन् स्तरे छात्रा: शुद्धसंस्कृतेन लिखन्ति, भाषणं कुर्वन्ति, चेदेव महत्साधनं भवति, तस्मिन्  स्नातकस्तरे, तत्र  संशोधनाद्यात्मकम् अध्ययनं कथं वा शक्येत ? साम्प्रदायिकशिक्षणमूला: छात्रा: कथञ्चित् शक्नुयु: एतादृशाध्ययनेषु परन्तु न ते आधुनिकशिक्षणसम्पन्ना इति क्वचित् तेऽपि निश्चयेन क्लेशमनुभवन्ति । अपि च तादृशा: स्वल्पा एव छात्रा: इति,  स्नातकस्तरे स्नातकोत्तरस्तरे वा संशोधनात्मकस्य, बहुविषयकस्य, तौलनिकस्य वा अध्ययनं नियतरूपेण पाठ्यक्रमे नियोजनं कियद्युक्तं स्यादिति शिक्षकस्य मनसि प्रश्न: नोदेति चेत् कथं वा स: निर्वञ्चनं कार्यं सम्पादयतीति वयं विश्वसिम: । 

 

 

Popular posts from this blog

ಬ್ರಾಹ್ಮಣ್ಯ ಮತ್ತು ಭಾರತ