This article is published in VIMUKTIH

collection of articles of National Seminar on "Life, Life after death and Self Realization" held on 16th &17th March 2019 at Shri Medhadakshinamurty Vedabhavana Sanskrit College, Gokarna with ISBN - 978-81-943769-0-3 

माध्ववेदन्ते बन्धमोक्षौ- मोक्षे आनन्दतारतम्यञ्च

भूतबन्धस्तु संसार:  

यस्मिन् कल्पे ये जीवा: सृज्या: तत्कल्पपर्यन्तमनादितो रमामात्रप्रतीकतया ताञ्जीवानधितिष्ठति (सृष्ट्यनन्तरं तु रमामुख्यप्राणप्रतीकाभवन्ति ) । सृष्टिकल्पे तु दशेन्द्रियपञ्चभूतमनोरूपषोडशकलात्म- कमव्यूढगुणत्रयात्मकं प्रकाशक्रियावरणलक्षणशक्ति- युक्तं  (प्रकाशो हि सत्वस्य क्रिया हि रजस: आवरणं हि तमस: ) सूक्ष्मतमं लिङ्गशरीरं क्षीरं नीरेणेव जीवचिता संवलितम् । तस्मिंश्च चिदचिन्मिश्रे पिण्डे एव जीवशब्दव्यवहारो यावत्परममुक्ति: । तत्रैव च न भेदप्रतिभासो विनाऽपरोक्षात् । यथा दीपो भूतान्तरसंवलितोऽपि तेजोऽप्रतिघं तथा सूक्ष्मगुणत्रयात्मिकाचिन्मिश्रिता चित् । तच्च न चितो विशेषतोपकारापकारक्षममिति द्वितीयेन महदहङ्कारभूतांशै: संयोज्य, भोगेन प्रारब्धं क्षपयित्वा, मोचयितुं दशेन्द्रियमन: श्रद्धाकाशवायुतेजोजलपृथिव्यन्नवीर्यतपोलोकमन्त्रनाम- कर्मचिदात्मकषोडशकलं स्थूलं शरीरं निर्माय स्वयं तत्र जीवमङ्गारे वह्निमिव निवेश्य तेन सम्पद्यमानं पुण्यपापात्मकं वित्तं त्रिविधेभ्य: स्वपुत्रेभ्यो यथायोग्यं विभज्य दातुं कार्यकारणप्रेरकान् ब्रह्मरुद्रेन्द्रादीन् पुष्करान्तान्देवान्देवारींश्चाधिष्ठाय जीवानधितिष्ठति । न चानुबोभूयमानज्ञानानन्दस्वरूपे प्राकृतसुखादिभोगावसर इति तत्स्वरूपं मायाविद्यादिपदबोध्यया स्वेच्छारूपया लिङ्गशरीररूपया च प्रकृत्याच्छादितम् । न चैतावता शरीरेन्द्रियविषया भोगदानायालं सुप्त्यादौ तददर्शनात् । अतो येन सहकृता: शरीरादयो भोगदानक्षमा: तदेव मुख्यं बन्धकम् । तच्च विचार्यमाणे अभिमान एव भवति । सचाभिमान: अनेकविध: । यथा-

१.     स्वगतस्वामित्वविशेषाज्ञानेन  शरीरेन्द्रियमनोविषयकस्वामित्वाभिमान:

२.     शरीरेन्द्रियेषु स्वात्मनो विशेषोपकारितया विशेषत: स्वामित्वाभिमान:

३.     तस्माच्च शरीरधर्माणां कार्श्यकठिनत्वादीनामात्मगतत्वाभिमान:

४.    स्वगतकर्तृत्वविशेषाज्ञानेनाहं कर्तेति कर्तृत्वस्वातन्त्र्याभिमान:

५.     स्वगतभोक्तृत्वाभिमानेनाहं भोक्तेति फलभोक्तृत्वस्वातन्त्र्याभिमान:

६.     स्वगतकारकस्वाम्यविशेषाज्ञानेन ममैव करणानीति कारकमुख्यस्वाम्यभिमान:

७.    स्वगतफलस्वाम्यविशेषाज्ञानेन फलमपि ममेति क्रियाफलमुख्यस्वाम्यभिमान:

८.    श्रीहरिभक्तिप्रसादावेव पुरुषार्थावित्यज्ञाननिमित्त: प्राकृतसुखे दु:खतुल्ये पुरुषार्थत्वाभिमान:

९.    तत्साधने स्रक्चन्दनवनितादौ विषये पुरुषार्थसाधनत्वापरपर्यायशोभनत्वाभिमान: श्रीहरिभक्तिप्रसादसाध- नमेव शोभनमित्यज्ञाननिमित्त:

एवं तत्तदज्ञानजनितै: कर्तृत्व-भोक्तृत्व-कारक-फलस्वाम्य-पुरुषार्थ-तत्साधनाभिमानै: भगवान् जीवे रागद्विषादिकमुत्पाद्य ज्ञानकर्मलक्षणं शरीरेन्द्रियसाध्यं व्यापारं कारयित्वा तेन कर्मणा नवीनशरीरादिदानद्वारा बध्नाति  - तदुक्तमनुव्याख्याने

“चेतनस्य द्वयं भोग्यं संसारो मुक्तिरेव च संसारस्त्रिविधस्तत्र स्वर्गो मध्यस्तथाधम:। मुक्तिश्च द्विविधा तत्र सुखं नित्यं तथापरम् । नित्यदु:खमितिज्ञेयं साधनं संसृतावपि । काम्यकर्मनिषिद्धञ्च साज्ञानामितिनिश्चय: । द्वेषो भक्तिश्च मुक्तौ तु मुक्तिद्वयविधायकम् । इति पैङ्गिश्रुते:” ।

  [1]जीवा: त्रिविधा: । सात्विका: राजसा: तामसाश्च इति । सात्विका एव मोक्षयोग्या: । राजसा: नित्यसंसारिण: । तामसास्तु अन्धन्तमोयोग्या: ।  सात्विकजीवेष्वपि विभिन्नाधिकारिण: भवन्ति । मन्दा: मध्यमा: उत्तमा: इति ।

मोक्ष:  

क:  मोक्ष: ? किं वा मोक्षसाधनम् ? कथञ्च तत्प्राप्यत इति  प्रमाणवचनै: किञ्चिदत्र प्रदर्श्यते । स्कान्दे – “बन्धको भवपाशेन भवपाशाच्च मोचकः । कैवल्यदः परं ब्रह्म विष्णुरेव सनातनः ॥ इति

“अज्ञानां ज्ञानदो विष्णु: ज्ञानिनां मोक्षदश्च स: । आनन्ददश्च मुक्तानां स एवैको जनार्दन: ॥“ “यस्य प्रसादात्परमार्तिरूपादस्मत् संसारान्मुच्यते नापरेण” ॥“ नायमात्मा प्रवचनेन लभ्य: न बहुधा श्रुतेन यमेवैष वृणुते तेन लभ्य: तस्यैष आत्मा विवृणुते तनूं स्वाम्” ॥[2] “नावेदविन्मनुते तं बृहन्तं सर्वानुभुम्  आत्मानं साम्पराये । तमेवं  विद्वानमृत इह भवति नान्य: पन्था अयनाय विद्यते ॥[3] आत्मा वाऽरे द्रष्टव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्यश्च ।[4] प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय:[5] कर्मणा त्वधम: प्रोक्त: प्रसाद: श्रवणादिभि: ।

मध्यमो ज्ञानसम्पत्या प्रसादस्तूत्तमो मत: ॥ प्रसादात्त्वधमाद्विष्णो: स्वर्गलोक: प्रकीर्तित: । मध्यमाज्जनलोकादिरुत्तमस्त्वेव मुक्तिद:॥ श्रवणं मननं चैव ध्यानं भक्तिस्तथैव च । साधनं ज्ञानसम्पत्तौ प्रधानं नान्यदिष्यते । न चैतानि विना कश्चित् ज्ञानमाप कुतश्चन ॥[6]

इति सात्विकानां मोक्षाधिकारिणां मोक्षप्रदाता परमात्मा विष्णुरेव । तस्य प्रसादेनैव मोक्ष: भवति । स च प्रसाद: भगवदिच्छारूपा । सा च परमात्मज्ञानेनैव सम्पादनीया । तच्च ज्ञानं भगवदनुग्रहेणैव सम्पादनीयम् । मोक्षे प्राप्तेऽपि तत्र स्वरूपानन्दाविर्भावोऽपि तदनुग्रहेणैव भवति । तर्हि सर्वेष्वपि साधनस्तरेषु भक्तिर्नियता । विना भक्तिं ज्ञानं वा प्रसादं वा नावाप्नोति । भगवद्भक्तिसम्पन्न: शमदमादिसंयुक्त: य: साधक: श्रवणमननादिकं विधाय भगवदपरोक्षज्ञानमाप्नोति स एव मोक्षसाधनीभूतं भगवत्प्रसादं सम्पादयति । नान्यत्साधनं मोक्षाय । इति मोक्षप्राप्तिप्रकारोऽपि अनेन सङ्गृहीत: ।

अयमत्र सङ्ग्रह:

भगवदपरोक्षज्ञानजनितभगवत्प्रसादसाध्य: मोक्ष: भगवदपरोक्षो हि स्वयोग्यबिम्बदर्शनम् तदेव हि मुख्यं मोक्षसाधनम् तच्च परमभक्तिसहितज्ञानसाध्यम् [7]परमा भक्तिश्च श्रवणमननादिजनित-परोक्षज्ञानसाध्या सा तरतमभावसहिता परमे ब्रह्मणि सर्वाधिका भवेत्   सात्विका एव जीवा मुक्तियोग्या: राजसा: वा तामसा: । अधिकारिणोऽपि त्रिविधा: (स्वरूपभेद एवात्र उच्यते  यतोह्ययं सात्विकानां मोक्षयोग्यानां विभाग: )  मन्द-मध्यमोत्तमत्वेन । मनुष्येषु ये उत्तमगणा: ते मन्दा: । मध्यमा: ऋषिगन्धर्वा: । देवास्तत्रोत्तमा मता: । इति[8] ब्र.सू.भा १-१-१-१.   मोक्षो हि स्वस्वरूपानन्दाविर्भाव:[9] ज्ञानानन्दादिस्वरूपा: जीवा: स्वभावत: तरतमभावसम्पन्ना: । अतो हि मोक्षात्पूर्वमुत्तरत्र च तरतमभाववन्त: एव जीवा: [10] तदुक्तं -छान्दोग्यभाष्ये

“..................नैषां पारावर्यमुच्छिद्यते कदाचन । नैषां पारावर्यमुच्छिद्यते कुतश्चन । परावर्येणैव ब्रह्मोपयन्ति । परावर्येणैव मुक्ता: सञ्चरन्ति । इत्यदिश्रुतेश्च”  छा. भा. खण्ड १४.

ऐतरेयभाष्ये च –

“ज्ञानानन्दबलाद्येषु विष्णुभक्तौ च सर्वश: ।  हीना शतगुणेनैव क्रमेणानेन ते मता: ॥ तेभ्यश्च ऋषयो मर्त्या हीना एव क्रमेण च ।  विशेषतस्तु मुक्तानां सर्वसंसारबन्धनात् ॥ क्रमोऽयं सम्यगुद्दिष्टो नित्यानन्दैकभोगिनाम्” ।

 ब्रह्मसूत्रभाष्ये-

“आत्मेत्येवं परं देवमुपास्य हरिमव्ययम् । केचिदत्रैव मुच्यन्ते नोत्क्रामन्ति कदाचन ॥ अत्रैव च स्थितिस्तेषामन्तरिक्षे तु केचन ।  केचित्स्वर्गे महर्लोके जने तपसि चापरे ॥ केचित्सत्ये महाज्ञाना गच्छन्ति क्षीरसागरम् । तत्रापि क्रमयोगेन ज्ञानाधिक्यात्समीपगा: ॥ सालोक्यञ्च सरूपत्वं सामीप्यं योग एव च । इमामारभ्य सर्वत्र यावत्सु क्षीरसगरे ॥ पुरुषोऽनन्तशयन: श्रीमन्नारायणाभिध: । मानुषा वर्णभेदेन तथैवाश्रमभेदत: ॥ क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिरा: । आजानजा: कर्मजाश्च तात्त्विकश्च शचीपति: ॥ रुद्रो ब्रह्मेति क्रमशस्तेषु चैवोत्तमोत्तमा: ।  नित्यानन्दे च भोगे च ज्ञानैश्वर्यगुणेषु च ॥ सर्वे शतगुणोद्रिक्ता: पूर्वस्मादुत्तरोत्तरम् । पूज्यन्ते चावरैस्ते तु सर्वपूज्यश्चतुर्मुख: ॥ स्वजगद्व्यापृतिस्तेषां पूर्ववत्समुदीरिता । सयुज: परमात्मानं प्रविश्य च बहिर्गता: ॥ चिद्रूपान्प्राकृतांश्चापि विना भोगांस्तु कांश्चन । भुञ्जते मुक्तिरेवं ते विस्पष्टं समुदाहृते” ति । ४-४-९-१९ ब्र. सू. भा

मुक्तिगेषु ब्रह्मैव प्रथम:

“ब्रह्मैव मुक्तिगेष्वादि: सुरास्तदवरोत्तमा: । मध्यमा ऋषिगन्धर्वाश्चरमा मानुषोत्तमा : ॥ इति प्रभावल्याम्” इति भा. ता. १० (उ)-९४



[1]  “अनिष्टादिकारिणामपि च श्रुतम्” ३-१-११-१३ इति सूत्रे सप्रमाणं  नित्यसंसारिणां स्वरूपमुपवर्णितम् । तद्विषये भष्ये भाल्लवेयश्रुतिरपि उदाहृता । सा च -“तद्य इह शुभकृतो ये वाऽशुभकृतस्तेऽशुभमनुभूयाऽवर्तन्ते  पुन: कर्म कुर्वन्ति पुनर्गच्छन्ति पुनरागच्छन्ति इति भाल्लवेयश्रुति:” । “संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात्” ३-१-११-१४ । अनेन च सूत्रेण तामसजीवानां स्वरूपमुपवर्णितं भवति । तत्र च कौण्ठरव्यश्रुतिरुदाहृता । सा च  “सर्वे वा एतेऽशुभकृत: संयमने प्रपतन्ति तत्र ये परद्विषो गुरुद्विष: श्रुतिद्विषस्तदवमन्तार: शठा मूर्खा इति वै ततोऽवरुह्य तमसि प्रपतन्ति नैवैते उत्तिष्ठन्तेऽपि  कर्हिचिद्वव्रं वा एतदित्याहुरथ येऽन्ये ब्र्ह्मद्विष: स्तेना: सुरापा इति वै तदनुभूयेमं लोकमनुव्रजन्ति” । इति कौण्ठरव्यश्रुति:  “स्मरन्ति च” ३-१-११-१५  इति सूत्रेण त्रिविधजीवानां सत्वे स्मृतयोऽपि प्रमाणिता: “गच्छन्ति पापिन: सर्वे नरकं नात्र संशय: । तत्र भुक्त्वा पतन्त्येव ये द्विषन्ति जनार्दनम् ॥ महातमसि मग्नानां न तेषामुत्थिति: क्वचित् । इतरेषां तु पापानां व्युत्थानं विद्यतेऽपि च ॥ सुखस्यानन्तरं दु:खं दु:खस्यानन्तरं सुखम् । इति सर्वत्र नियम: पञ्चकष्टे तु तत्सदा” ॥ “अपि सप्त” ३-१-१२-१६ इति सूत्रेण नैकविधा: नरका: समुपवर्णिता: रौरवोऽथ महांश्चैव वह्निर्वैतरणी तथा । कुम्भीपाक इति प्रोक्तान्यनित्यनरकाणि तु ॥ तामिस्रश्चान्धतामिस्रो द्वौ नित्यौ सम्प्रकीर्तितौ । इति सप्त प्रधानानि बलीयस्तूत्तरोत्तरम् ॥ एतानि क्रमशो गत्वैवाऽरोहोऽथावरोहणम् । भारते “न तृतीये तथोपलब्धे:”  इति तमस: स्वरूपमपि सप्रमाणं निरूप्यते  अथाविद्वानकर्माऽवाग्गच्छति त्रिधा ह वाऽवाग्गतिस्तिर्यग्यातना तम इति । द्वे वाव सुखानुवृत्ते न तम: सुखानुवृत्तं केवलं ह्येवात्र दु:खं भवति” इति श्रुते:  । इति एवं त्रिविधानामपि जीवानां स्वरूप-गतिनिरूपणं विहितम् ।

[2] क.उ. २-२३

[3] तै.आ. ३-१२

[4] बृ.उ. ६-५-६

[5] भ.गी ७-१७

[6] नारदीये ब्र.सू,भा १-१-१

[7] श्रवणं मननं चैव ध्यानं भक्तिस्तथादृशि: । ज्ञानञ्चोक्तविशेषाणां सर्वेषां साधनं भवेत् ॥

त्यक्त्वैतानि न कस्यापि भवेन्मोक्ष: कथञ्चन । सर्वोत्तमतया ज्ञानपूर्वक: स्नेह एव तु ।

भक्तिर्विष्णौ समुद्दिष्टा तदन्येषां तु योग्यत: ॥  विष्णुभक्तिर्देवभक्तिर्गुरौ भक्तिस्तथैव च ।

तत्तत् श्रैष्ठ्यानुसारेण मुक्तौ नियतसाधनम् ॥  भक्तिपूर्तौ भवेन्मुक्ति: तदभावे च नो भवेत् ।

भक्तिर्ज्ञानं तथा ध्यानं मुक्तानामपि सर्वश: ॥  नियमेन न हीयन्ते मुक्तानां ते स्वरूपका:  

साधनानि तु सर्वाणि भक्तिज्ञानप्रवृद्धये । नैवान्यसाधनं भक्ति: फलरूपाहि सा यत: ॥ बृ. उ. भा. प्रथमाध्याय:

[8] मन्दमध्योत्तमत्वेन त्रिविधा ह्यधिकारिण:। तत्र मन्दा मनुष्येषु य उत्तमगणा मता: ॥ मध्यमा ऋषिगन्धर्वा देवास्तत्रोत्तमा मता: । इति जातिकृतो भेदस्तथान्यो गुणपूर्वक: । भक्तिमान्परमे विष्णौ यस्त्वध्ययनवान्नर: ।

अधम: शमादिसंयुक्तो मध्यमस्समुदाहृत: ।  आब्रह्मस्तम्बपर्यन्तमसारं चाप्यनित्यकम् ।  विज्ञाय जातवैराग्यो विष्णुपादैकसंश्रय: ॥ स उत्तमोऽधिकारी स्यात्सन्न्यस्ताखिलकर्मवानिति ॥

[9] मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थिति: । भा. २-१०-०६

[10] पूर्वसृष्टौ पूर्वजा ये तेऽधिका: सर्वतो गुणै: ।

अनाद्यनन्तकालेषु मुक्तावपि यथाक्रमम् । इति निबन्धे” इति भा. ता. ११-१४-०४

Popular posts from this blog

ಬ್ರಾಹ್ಮಣ್ಯ ಮತ್ತು ಭಾರತ