भारतीयदर्शनानि - अन्त:शास्त्रीयमध्ययनम् एकं चिन्तनम्

भारतीयदर्शनानि - अन्त:शास्त्रीयमध्ययनम्

एकं चिन्तनम् 

अन्त:शास्त्रीयाध्ययनम्-

प्राचीनपारम्परिकभारतीयदर्शनेषु अन्त:शास्त्रीयाध्ययनं स्वाभाविकं विद्यत इति तत्तद्दर्शनाध्येतॄणां विदितमेव । अन्त:शास्त्रीयाध्ययनस्यावश्यकता का ? तस्य किं वा प्रयोजनम् इति किञ्चिदत्र चिन्तयाम: -

१.     अन्त:शास्त्रीयाध्ययनव्याजेन पारम्परिकशास्त्राणामध्ययने सृजनात्मकताया: सम्पादनम् शक्यते

२.     शास्त्रान्तरमधीयाना: अपरस्मिन् शास्त्रे नावीन्यमापादयितुं शक्नुवन्ति ।

३.     एकस्मिन्नेव शास्त्रे निष्णाता: कदाचित्क्वचिद्विषये दोषानाचरेयु: परन्तु नैकशास्त्रनिपुणा: तद्विषये समीचीनां दृष्टिं प्रसारयितुं प्रभवन्ति ।

४.    सुसूक्ष्मविचारशक्तिसंवर्धनद्वारा बह्वीनां बौद्धिकसमस्यानां सामाजिकसमस्यानां तथा प्रायोगिकसमस्यानां परिहरणे अन्त:शास्त्रीयमध्ययनं सहकरोति ।

५.     अन्त:शास्त्रीयमध्ययनं बहुत्र ज्ञानेषु परस्परसंवादं जनयति ।

६.     अन्त:शास्त्रीयाध्ययनेन कश्चित् संशोधनकर्मणि समुत्पद्यमानान् क्लेशान् सुखेन तरति ।

७.    विघटितानां लुप्तप्रायाणां ग्रन्थानां/शास्त्राणां वा तत्र तत्रोपलभ्यमानांशसङ्कलनेन पुनस्सङ्घटने अन्त:शास्त्रीयमध्ययनम् उपयुज्यते।

अन्त:शास्त्रीयाध्ययनं तथा पारम्परिकशास्त्राणि

“शास्त्रं नाम वक्तृश्रोत्रोरभिमतम् अनन्यसाध्यं फलमधिकृत्य तद्धेतुभूतं प्रमाणान्तराप्राप्तम् अर्थं प्रतिपादयतां वाक्यसमूह:” एतादृशं शास्त्रलक्षणं स्वीयशास्त्रे एव वर्तत इति सर्वेषां तत्तच्छास्त्रानुयायिनामभिप्राय: । अत: अलौकिकं शाश्वतं किमपि साधयितुं प्रवृत्ता: भारतीया दार्शनिका: स्वीयविचारधारया स्वस्वदर्शनानि प्रावर्तयन् । मूलमेतेषां दर्शनानां प्रावृत्तौ एकमेवेति सर्वविदितमेव । अत्र तु प्रत्येकस्मिन् दर्शने विभिन्नदर्शनानां विमर्शनमवश्यं भवतीति प्रत्येकमपि दर्शनं अन्त:शास्त्रीयपरिज्ञानं विना दुरवगाहमेव । अत: एकस्मिन् दर्शने प्रवेष्टुं प्राय: दार्शनिकभाषाया: प्रकारस्य च मूलं भवति काणादं पाणिनीयञ्च ।

“काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम्”

 सामान्यत: एतदुभयाध्ययनेन साकमेकं दर्शनं कश्चिदभ्यसति चेत् प्राय: इतरदर्शनेषु तस्य गति: निराबाधा भवति। यद्यपि पाणिनीयं शास्त्रं शब्दशास्त्रमिति प्रसिद्धं सत् भाषाशुद्ध्यर्थमेव प्राय: अपेक्षते । तथापि शब्दशक्तिविचारे बह्व्य: विप्रतिपत्तय: शास्त्रान्तरैस्साकं विद्योतन्त इति न सर्वे विषया: वैयाकरणानां सर्वसम्प्रतिपन्ना भवन्ति । प्राचीन-नवीनभेदभिन्नानां नैयायिकानां मध्ये नवीननैयायिकानां चिन्तनपद्धतिरेव विशिष्टा । प्राचीनानां शास्त्रं प्रमेयभूयिष्टमेव दृश्यते । नवीनानान्तु विचारभूयिष्टम् । या च विचारपद्धति: दर्शनान्तरेष्वपि सङ्क्रान्ता इति तत्तच्छास्त्राध्ययनंधीत्या नवीनन्यायशास्त्राध्ययन- सापेक्षमभवत् । यथा इतरशास्त्राध्ययनं नवीनशास्त्राध्ययनसापेक्षं न तथा व्याकरणशास्त्राध्ययनसापेक्षम् । व्याकारणशास्त्रस्याल्पकालिकाध्ययनेनापि शास्त्रेषु प्रवेश: शक्य: । यावदावश्यकं तावदधीत्यापि शास्त्रान्तरे प्रवेष्टुं शक्नोति ।   केषुचिद्विषयेषु एव व्याकरणशास्त्रस्याध्ययनं विशिष्यापेक्षते ।

नवीनन्यायपद्धतेरनिवार्यता    

बौद्ध-जैन-पूर्वोत्तरमीमांसाशास्त्रेषु नव्यन्यायपद्धत्या चिन्तनानि प्रवृत्तानि । ग्रन्थाश्च निबद्धा: । नैतावदेव, नव्यन्यायप्रक्रियानिराकरणपराश्च ग्रन्था विभिन्नदर्शनेष्वाविष्कृता: । नव्यन्यायचिन्तन- पद्धतिमेवानुसरन्तो बहव: बौद्धा:,जैना:,वेदान्तिन:,वैयाकरणाश्च नव्यन्यायप्रक्रिया: निराचक्रु: ।  तर्कसङ्ग्रहादिसदृशग्रन्था अपि स्वस्वदर्शनानुसारं परस्मिन् काले ग्रथिता दृश्यन्ते । ततश्च नवीनन्यायचिन्तनपद्धतेरवगमनं तत्तच्छास्त्रेषु एव सम्भाव्यमिति व्याकारणशास्त्रमिव नवीनन्यायग्रन्थानामपि अल्पकालिकाध्ययनमेवापेक्षते ।  नतु समग्र नवीनन्यायग्रन्थाध्ययनम् । तदध्ययनं नान्त:शास्त्रीयमध्ययनम् ।

यथा काणादं यथा च पाणिनीयं तथेतराणि दर्शनानि च

दर्शनानि तावत् पूर्वपक्षसिद्धान्तरूपेणैव प्रवृत्तानि एकस्य दर्शनस्यापराणि सर्वाणि दर्शनानि पूर्वपक्षायन्ते । तेन इदं स्पष्टं भवति यदेएकस्य दर्शनस्याध्ययनमनिवार्यरूपेणान्त:शास्त्रीयाध्ययनमेव भवति । स्वीयशास्त्रसंस्थापनाय तत्तच्छास्त्रप्रवर्तकानां पूर्वाचार्याणां तदितरसमस्तशास्त्राणाम- ध्ययनमनिवार्यमासीत् । तेनेदं स्पष्टं भवति यत्स्वीयशास्त्रे प्रवेश: व्याकरण-नवीनन्यायशास्त्रयोरध्यय- नसापेक्षोऽपि स्वीयशास्त्राधिगमस्तु पूर्वपक्षायमानशास्त्राध्ययनसापेक्षमिति तदध्ययन्मेव हि अन्त:शास्त्रीयाध्ययनं भवति । यदि तेषु व्याकरणन्यायशास्त्रेऽप्यन्तर्गते तर्हि तयोरप्यध्ययनम्   अन्त:शास्त्रीयाध्ययनं भवितुमर्हति ।

योगशास्त्रम् – वेदान्तशास्त्रम्

अद्यतनयोगशास्त्राभ्यासविषये वक्तव्यं चेत् योगशास्त्रं नाम केषाञ्चनासनानामभ्यास:, प्राणायामप्रक्रिया चेति बहव: मन्यन्ते ।  ते नेत्रे निमील्य “यमनियामासनप्राणायामप्रत्याहारध्यान- धारणसमाधय:” इत्यादिरीत्या सूत्राणि कण्ठस्थीकुर्वन्ति । नैतस्य सम्पूर्णस्य सूत्रस्यावगति: छात्राणां भवति । आसनप्राणायामेषु केवलं किञ्चिदभ्यस्था: ते योगाचार्या भवन्ति । यमनियमप्रत्याहारध्यानधरणसमाधीनां विषये विभिन्नदार्शनिकानामभिप्राय: क: इति अवश्यमेवात्रान्त:शास्त्रीयाध्ययनं शक्यते । वेदान्तशास्त्रेषु अपि एते विषया: बहुधा चर्चिता: । तत्तद्वेदान्तशास्त्रानुगुणं ध्यानधारणसमाधीनां कल्पना भिन्ना एव भवति । माध्ववेदान्ते प्रमेयभागे सविस्तरमेते अंशा चर्चितास्सन्ति । विना वेदान्तं योगसिद्धि: नैव जायते । वेदान्तस्याध्ययनमपि योगेन विना नैव फलप्रदमिति तज्ज्ञा एव जानन्ति । 

यथावकाशमनुवर्तते ---------

 

Popular posts from this blog

ಬ್ರಾಹ್ಮಣ್ಯ ಮತ್ತು ಭಾರತ