भारतीयदर्शनपरिचय: part 1
किम् नाम दर्शनम् ? दर्शनम् इत्यस्य ज्ञानम् इति, ज्ञानसाधनम् शास्त्रम् इति च अर्थ: । दृशिर् प्रेक्षणे इति धातो: ल्युट् प्रत्यये सति निष्पन्न: दर्शनम् इति शब्द: । ल्युट् प्रत्यय: भावार्थे करणार्थे, च भवति । भावार्थे ल्युट् प्रत्यय: भवति चेत् दर्शनशब्दस्य ज्ञानम् इति अर्थ: (दृश्यते इति दर्शनम् )करणार्थे भवति चेत् ज्ञानसाधनं शास्त्रम् इति अर्थ: ( दृश्यते अनेन इति दर्शनम् ) । ज्ञानसाधनानि अनेकानि सन्ति । यथा पञ्चज्ञानेन्द्रियाणि, अनुमानम् ,शब्दश्च, । चक्षु: रसनं,घ्राणं, त्वक्, श्रोत्रं, इति पञ्च ज्ञानेन्द्रियाणि भवन्ति । एतै: पञ्चज्ञानेन्द्रियै: क्रमश: रूप-रस-गन्ध-स्पर्श-शब्दानां ज्ञानं जायते ।
· देशत: कालत: असन्निहितानां पदार्थानां ज्ञानं प्रत्यक्षेण न
भवति । तादृशानां पदार्थानां ज्ञानं
शब्देन वा अनुमानेन वा भवति । एतस्य विवरणम् अग्रे भविष्यति । अत्र अयं
प्रश्न: भवति – दर्शनम् इति पदस्य
ज्ञानसाधनम् इति अर्थ: चेत् , चक्षुरादीनि
ज्ञानसाधनानि बहूनि सन्ति तेषु अपि
दर्शनपदं प्रयोक्तुं शक्यते । कुत: दर्शनपदस्य
शास्त्रम् इत्येव अर्थ: उक्त: ? इति
इदम् अत्र
उत्तरम् भवति – “असाधारण्येन हि व्यपदेशा: भवन्ति” इति नियम: अस्ति । व्यपदेशा: नाम अभिधानानि अथवा नामानि तानि मुख्यत: असाधारणवस्तुषु अथवा प्रधानवस्तुषु एव भवन्ति
। प्रसङ्गवशात् अन्यवस्तुषु अपि भवन्ति । यथा
सरसिजम् इति शब्द: । सरसिजम् इत्यस्य सरसि – जलाशये जायते इति
सरसिजम् इति अर्थ: । जलाशये कमलं, शैवालं
मत्स्यादिकमपि जायते । तथापि शैवालादिषु सरसिजशब्द: न भवति । कमले एव प्रधानतया भवति । प्रसङ्गवशात्
शैवालादिषु अपि कदाचित् सरसिजम् इति शब्द: प्रयुज्यते ।तद्वत्
दर्शनम् इत्यस्य दृश्यते अनेन इति व्युत्पत्त्या ज्ञानसाधनम् इति अर्थ: । ज्ञानसाधनेषु दर्शनशब्द: साधारण: अपि असाधारणसाधने एव भवति । प्रत्यक्षानुमानै: अग्राह्या: महात्मनामेव
बुद्धिगोचरा: पदार्था: येन दृश्यन्ते - ज्ञायन्ते तदेव दर्शनम्
असाधारणम् इति । अत: दर्शनम् इति शब्द: शास्त्रेषु प्रधानम् भवति ।दर्शनशब्दवाच्यानि
शास्त्राणि द्विविधानि ।
नास्तिकदर्शनानि आस्तिकदर्शनानि इति ।
· तत्र “ वेदा: प्रमाणम्” इति ये मन्यन्ते ते आस्तिका: तेषां दर्शनम् आस्तिकदर्शनम् । ये “वेदा: अप्रमाणम्” इति मन्यन्ते ते नास्तिका: तेषां दर्शनम् नास्तिकदर्शनम् ।
· आस्तिकदर्शनेषु वेदान्तदर्शनम् अन्यतमत्
।
· वेदान्तदर्शनेषु अद्वैतवेदान्तदर्शनं, विशिष्टाद्वैतदर्शनं, माध्ववेदान्त (द्वैतवेदान्त)दर्शनम् इति त्रीणि प्रधानवेदान्तदर्शनानि । अन्यानि अपि सन्ति शक्तिविशिष्टाद्वैतं शिवाद्वैतं द्वैताद्वैतादीनि । प्रधानतया वेदान्तदर्शने आत्मा (जीव: ), परमात्मा (ब्रह्म) प्रपञ्च: इति एते विषया: निरूप्यन्ते । एतेषां जीवब्रह्मप्रपञ्चानां मध्ये परस्परं अभेद: अस्ति इति केचन, भेद: अस्ति इति केचन, अपरे भेदाभेद: अस्ति इति च अभिप्रयन्ति । अत एव वेदान्तदर्शनानां प्रतिपाद्यं विषयम् आश्रित्य तदनुगुणं नामानि प्रसिद्धिम् आगतानि । प्राय: वेदान्तदर्शनस्य मूलानि भवन्ति उपनिषद: , ब्रह्मसूत्राणि, भगवद्गीता च । एतदेव प्रस्थानत्रयम् इति उच्यते । उपनिषत्प्रस्थानं, सूत्रप्रस्थानं गीताप्रस्थानम् इति । सर्वै: अपि वेदान्तदर्शनाचार्यै: प्रस्थानत्रयस्य व्याख्यानं कृतमस्ति ।तेषां व्याख्यानानि एव “भाष्याणि” इति व्यवह्रियन्ते ।