भारतीयदर्शनपरिचय:  part 2

समया: हि प्रवाहतोऽनादिनित्या इत्यभियुक्तोक्ते:  सर्वाण्यपि दर्शनानि प्रवाहतोऽनादिनित्यानि । कस्मिंश्चित्कालघट्टे  तत्तद्दर्शनस्याभ्युदय:  समभूदिति भारतीयदर्शनपरम्पराभिज्ञा एव ज्ञातुं शक्नुवन्ति । अत:  दर्शनानां पूर्वत्वापरत्वे तत्तद्दर्शनाभ्युदयसापेक्षे । तत्तद्दर्शनाभ्युदयकारणीभूतानां कालमपेक्ष्यैव दर्शनानामपि काल:  निर्णीयते ।

सं

दर्शनानि

प्रवर्तका:

1

चार्वाकदर्शनम्

बृहस्पति:

2

जैनदर्शनम्

जिन:

3

बौद्धदर्शनम्

बुद्ध:

4

सांख्य- योगदर्शनम्

कपिलमुनि:/ पतञ्जलि:

5

न्याय-वैशेषिकदर्शनम्

गौतमः कणाद:

6

पूर्वमीमांसादर्शनम्
उत्तरमीमांसादर्शनम्

जैमिनि: –
वेदव्यास:

 

 







दार्शनविकास:  

प्राय:  स्तरत्रये दर्शनानां विकास:  परिदृश्यते । परमार्थदिदृक्षु:  कश्चन ऋषि:  सुदीर्घकालेन तपसा यत्प्राप्नोति तन्मन्त्ररूपेणाभिव्यज्यते । ऋषय:  मन्त्रद्रष्टार:  । अयं हि प्रथमस्तर:  । मन्त्राणामर्थनिर्णयाय ऋषिकल्प: कश्चन सूत्राणि कारिका:  वा ग्रथयति । द्वितीयोऽयं स्तर:  । अनेन हि दर्शनं किञ्चिदाविष्कारं गच्छति । सूत्राणि कारिका:  वा व्याख्यातुं बहव:  ज्ञानिन:  बहुधा प्रायतन् । पूर्वपक्षसिद्धान्तरूपेण तत्सम्प्रदायप्रवर्तका:  मतान्तरनिराकरणेन स्वाभिमतस्थापनार्थं भाष्याणि रचयामासु:  । तदनुयायिभि:  कालान्तरे सपरिष्कारं टीकाटिप्पण्यादय:  विरचिता:   

दर्शनानां-विषयवस्तु

प्रत्येकस्यापि दर्शनस्यारम्भे तद्दर्शनस्य आरम्भणीयत्वसमर्थनं दृश्यते । अनुबन्धचतुष्टये सति आरम्भणीयत्वं दर्शनस्य नान्यथा । अधिकारी, विषय: , प्रयोजनं, सम्बन्धश्चेति अनुबन्धचतुष्टयम् । विषय:= दु: खनिवृत्त्युपाया:  सुखप्राप्त्युपाया: । अधिकारी =  सुखापेक्षी । प्रयोजनम् = सुखम् , दु: खनिवृत्तिश्च 
सम्बन्ध:  अनेकविध:  
ग्रन्थस्य विषयस्य सम्बन्ध:प्रतिपाद्यप्रतिपादकभावसम्बन्ध:विषयस्य अधिकारिणश्च ज्ञातृ -ज्ञेयभावसम्बन्ध: विषयस्य प्रयोजनस्य जन्य-जनकभावसम्बन्ध:  प्राप्य -प्रापकभावसम्बन्ध: 

 प्रयोजनं हि आत्यन्तिकसुखप्राप्ति: ।  सुखप्राप्ति:  दु:खनिवृत्तिश्चेति द्वयमिदं जीवसामान्यापेक्षितम् । अनेन च जीवानां योऽयं जननमरणादिरूपसंसार:  स:  दु:खस्वरूप:  एव इति सर्वसमयाभिमतं तत्त्वम् । अत एव अलौकिकं नित्यं सुखम् आप्तुम् प्रापयितुं वा सर्वाण्यपि दर्शनानि प्रवृत्तानि । 

तत्र दु: खकारणं किम् ?  तन्निवृत्त्युपाया:  के ?   किं वा नित्यं सुखम् ? तत्प्राप्त्युपाया:  के ?इत्येतावदेवदेव दर्शनानां मुख्यं विषय:  । एतदनुबन्धिनोऽन्येऽपि विषयास्सम्भवन्ति । तत्र इमे मुख्या:  विषयास्सन्ति  ।

आत्मा

चार्वाका:  चैतन्ययुतं शरिरमेव आत्मा इति मन्यन्ते । बौद्धा:  शरीरातिरिक्तमात्मानमङ्गीकुर्वन्ति चेदपि तं क्षणिकमाहु:  । क्षणिकविज्ञानसन्तान एवात्मेति तन्मतम् । जैनास्तु ज्ञानेच्छाक्रियाश्रयमात्मानमङ्गीकुर्वन्ति । एवमेवास्तिकदर्शनान्यपि शरीरातिरिक्तमात्मानं सुखाद्याश्रयत्वेन,ज्ञानाश्रयत्वेन, केचन ज्ञानस्वरूपत्वेन, अन्ये केचन सगुणत्वेन, निर्गुणत्वेन,एकत्वेनानेकत्वेन चात्मतत्त्वमुपवर्णयन्ति । आत्मा –   

चार्वाका:  - शरीरमेव आत्मा

          बौद्धा:  -  शरीरातिरिक्त:  अपि क्षणिक:

          जैना:  -   शरीरातिरिक्त:  ज्ञानेच्छाक्रियाश्रय:

         सांख्या:  - शरीरातिरिक्त:  सुखाद्याश्रय:

        न्यायवैशेषिका:  - शरीरातिरिक्त:  ज्ञानेच्छाक्रियाश्रय:

         पूर्वमीमांसका:  - शरीरातिरिक्त:  ज्ञानेच्छाक्रियाश्रय:

उत्तरमीमांसका: / वेदान्तिन:

        अद्वैतवेदान्तिन:  = जीवो ब्रह्मैव नापर:

        विशिष्टाद्वैतिन:  = जीव:  परमात्मना भिन्न:  अपि तस्य अंश:

        द्वैतिन:  = जीव:  परमात्मना अत्यन्तं भिन्न:  तदधीनश्च

अनात्मा

·      समस्तोऽयं चेतनातिरिक्त:  प्रपञ्च:  अनात्मनि अन्तर्भवति ।  नास्त्यत्र दार्शनिकेषु विप्रतिपत्ति:  ।

·      परिदृश्यमानोऽयं प्रपञ्च:  पारमार्थिक इति चार्वाका:  बौद्धैकदेशिन:  जैना:  न्यायवैशेषिका: ,सांख्याश्च मन्यन्ते ।

·      विज्ञानवादिन:  शून्यवादिन:  अद्वैतवादिनश्च प्रपञ्चस्य व्यावहारिकसत्यत्वमेवाभि प्रयन्ति ।

·      अनात्मत्वेनान्यै:  परिगणितानि पुण्यपापाद्यदृष्टं, तत्कारणानि प्रारब्धागामिसञ्चित- कर्माणि वा चार्वाका:  नाङ्गीकुर्वन्ति ।

·      अन्ये बौद्धजैनादय:  सत्कर्मणा पुण्यं दुष्कर्मणा पापं, पुण्यकर्मणा च सुखं ,पापेन च दु:- खमङ्गीकुर्वन्ति ।

·      अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम् इत्युक्तरीत्या इह जन्मनि जन्मान्तरे वा शुभाशुभकर्मणां फलमनुभोक्तव्यमेवेति सर्वाभिमतं तत्त्वम् । अनेन कृतप्रणाशस्याकृताभ्यागमस्य वा नावकाश:  ।

अनात्मा – दृष्टप्रपञ्च:  -  पञ्चभूतात्मकोऽयं प्रपञ्च:  वृक्ष: , पर्वत:  पाषाण:  इत्यादय:                         अदृष्टप्रपञ्च:  -  पापकर्म, पुण्यकर्म, अदृष्टादयश्व ।

दार्शनिका:

दृष्टप्रपञ्च:

अदृष्टप्रपञ्च:

विशेष:

चार्वाका:

पारमार्थिक:

नास्त्येव

 

सांख्या:

पारमार्थिक:

अस्ति

 

बौद्धा:

व्यावहारिक:

अस्ति

बौद्धैकदेशिन:  पारमार्थिकं वदन्ति

जैना:

पारमार्थिक:

अस्ति

 

न्यायवैशेषिका:

पारमार्थिक:

अस्ति

 

पूर्वमीमांसका:

पारमार्थिक:

अस्ति

 

उत्तरमीमांसका:

अद्वैतवेदान्त:

व्यावहारिक:

व्यावहारिक:

व्यावहारिक:  एव

विशिष्टाद्वैतवेदान्त:

पारमार्थिक:

अस्ति

 

द्वैतवेदान्त:

पारमार्थिक:

अस्ति

 


जगत:  कालदेशनियतत्वं उत्पत्तिविनाशनियतत्वं, कार्यकारणभावनियतत्वञ्च सर्ववादिसम्मतम् ।

सत्कार्यवाद:,असत्कार्यवाद:, विवर्तवाद:  परिणामवादश्चेति कार्यकारणभावम् अनेकरीत्या प्रतिपादयन्ति चेदपि प्रत्येकस्यापि कार्यस्य किञ्चित्कारणं भवत्येवेति समेषां दर्शनानाम्  अविप्रतिपन्नं तत्त्वम् ।

बन्ध: मोक्षश्च

·      जननमरणयोश्चक्रमेव संसार इत्युच्यते । अयमेव हि संसार:  बन्ध:  इति  ।   तस्माद्बहिरागमनमेव च मोक्ष:  इति च  दार्शनिकानां परिभाषा । बन्धस्य कारणन्तु अविद्यैव । बन्धस्य, तत्कारणीभूताया अविद्यायाश्च स्वरूपविषये अपि विवाद:  अस्ति । परन्तु अविद्याया:  रागद्वेषदु: खादिमूलत्वं सर्वे मन्यन्ते । ज्ञानस्य मोक्षसाधनत्वन्तु बहुवादिसम्मतं तत्त्वम् । केचन कर्मणोऽपि मोक्षसाधनत्वमाहु:  यथा बन्धतत्कारणस्वरूपयो:  विवदन्ते तथा मोक्षस्वरूपे तत्कारणीभूतज्ञानस्वरूपे च ।

Popular posts from this blog

ಬ್ರಾಹ್ಮಣ್ಯ ಮತ್ತು ಭಾರತ